श्रीनारायणाष्टकम

वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा –
दौदार्यादघशोषणादगणितश्रेय:पदप्रापणात्
। सेव्य: श्रीपतिरेक एव जगतामेतेSभवन्साक्षिण:
प्रह्लादश्च विभीषण्श्च करिराट् पांचाल्यहल्या ध्रुव: ।।1।।
प्रह्लादस्ति यदीश्वरो वद हरि: सर्वत्र मे दर्शय
स्तम्भे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरि: ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादय –
न्नार्तत्राणपरायण: स भगवान्नारायणो मे गति: ।।2।।
श्रीरामात्र विभीषणोSयमनघो रक्षोभयादागत:
सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम्।
इत्युक्त्वाभयमस्य सर्वविदितं यो राघवो दत्तवानार्त0 ।।3।।
नक्रग्रस्तपदं समुद्धतकरं ब्रह्मादयो भो सुरा:
पाल्यन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु य: ।
मा भैषीरिति यस्य नक्रहनने चक्रायुध: श्रीधर: ।आर्त0 ।।4।।
भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम्।
इत्युक्तोSक्षयवस्त्रसंभृततनुं योSपालयद्द्रौपदीमार्त0 ।।5।।
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं
यन्नामामृतपूरकं च पिबतां संसारसन्तारकम्।
पाषाणोSपि यदड्घ्रिपद्मरजसा शापान्मुनेर्मोचित । आर्त0 ।।6।।
पित्रा भ्रातरमुत्तमासनगतं चौत्तानपादिर्ध्रुवो
दृष्ट्वा तत्सममारुरुक्षुरधृतो मात्रावमानं गत: ।
यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनमार्त0 ।।7।।
आर्ता विषण्णा: शिथिलाश्च भीता
घोरेषु च व्याधिषु वर्तमाना:।
संकीर्त्य नारायणशब्दमात्रं
विमुक्तदु:खा: सुखीनो भवन्ति ।।8।।
इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम्।